अन्तर्वेदि बर्हिरासाद्यमानमभिमन्त्रयते
सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च ।
वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धाः ॥
इति १
बर्हिः स्तीर्यमाणमभिमन्त्रयते
ऊर्णामृदु प्रथमानँ स्योनं देवेभ्यो जुष्टँ सदनाय बर्हिः ।
सुवर्गे लोके यजमानँ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन् ॥
इति २
वेदिँ सँ स्तीर्यमाणामभिमन्त्रयते
चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते ।
सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् ॥
शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती
चैधि ॥ इषमूर्जं मे पिन्वस्व । ब्रह्म तेजो मे पिन्वस्व । क्षत्रमोजो
मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुरन्नाद्यं मे पिन्वस्व ।
प्रजां पशून् मे पिन्वस्व । लोकं मे पिन्वस्व इति ३
८