०७

त्वचमुद्धन्यमानामभिमन्त्रयते

यदुद्घ्नन्तो जिहिम्म्सिम पृथिवीमोषधीरपः ।

अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पातु तस्मात् ॥

यदुद्घ्नन्तो जिहिँ सिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः ।

मा तेन हेड उपगाम भूम्याः शिवा नो विश्वैर्भुवनेभिरस्तु ॥

इति १
कृतामनुमन्त्रयते

भूमिर्भूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाँ सि ।

यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्च ॥

इति २
प्रोक्षणीरासाद्यमाना अभिमन्त्रयते

ईडेन्यक्रतूरहमपो देवीरुपब्रुवे ।

दिवा नक्तं च सस्रुषीरपस्वरीः ॥

इति ३
बर्हिरुपसाद्यमानमभिमन्त्रयते

अशिश्रेम बर्हिरन्तः पृथिव्याँ सँ रोहयन्त ओषधीर्विवृक्णाः ।

यासां मूलमुदवधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु ॥

इति ४
आज्यं प्रोक्षणीश्चोत्पूयमाना अभिमन्त्रयते

अद्भिराज्यमाज्येनापः सम्यक् पुनीत सवितुः पवित्रैः ।

ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदानाः ॥

इति ५
व्याख्यातमाज्यावेक्षणमाज्यग्रहा इति ६