हविर्निरुप्यमाणमभिमन्त्रयते अग्निँ होतारमिह तँ हुवे इति १
तदुदित्वा वाचं
यच्छत्या हविष्कृतः २
सर्वं विहारमभिमन्त्रयते कस्त्वा युनक्ति स त्वा
युनक्तु इति ३
वेदिँ सम्मृज्यमानामभिमन्त्रयते
चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये ।
मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामान् ॥
इति ४
स्तम्बयजुर्ह्वियमाणमभिमन्त्रयते
यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः ।
यः श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मि ॥
इति ५
उत्करमभिगृह्यमाणमभिमन्त्रयते
इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् ।
मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीषु ॥
इति ६
परिग्राहं पूर्वं चोत्तरं चाभिमन्त्रयते यज्ञस्य त्वा प्रमयाभिमया
प्रतिमयोन्मया परिगृह्णामि ॥
बृहस्पते परि गृहाण वेदिँ स्वगा वो देवाः सदनानि सन्तु ।
तस्यां बर्हिः प्रथताँ साध्वन्तरहिँ स्रा णः पृथिवी देव्यस्तु ॥
इति ७
६