०५

आहवनीयागारे गार्हपत्यागारे वा संविशति १
श्वो भूतेऽपरेणाहवनीयमति-क्रम्यापरेण ब्रह्मसदनं यजमान आहवनीयमभिमुख उपविशति २
सो-ऽत्रैवासीनः कर्माणि क्रियमाणान्यभिमन्त्रयते ३
अग्नीन् परिस्तीर्यमाणा-नभिमन्त्रयते

उभावग्नी उपस्तृणते देवता उपवसन्तु मे ।

अहं ग्राम्यानुपवसामि मह्यं गोपतये पशून् ॥

इति ४
प्रणीताः प्रणीयमाना अभिमन्त्रयते भूश्च कश्च वाक् चर्क् च गौश्च वट् च खं च धूश्च नूश्च पूश्च ॥

एकाक्षराः पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुः ।

ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीः ॥

ब्रह्मपूताः स्थ ॥ को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्या-यै ॥

याः पुरस्तात् प्रस्रवन्त्युपरिष्टात् सर्वतश्च याः ।

ताभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभे ॥ इति ५