य एवैषोऽग्निहोत्राय प्रणीतस्तं गृह्णीयादित्याश्मरथ्यः । अन्यं
प्रणीयेत्यालेखनः १
अशनमग्न्यन्वाधानं
व्रतोपायनमित्येवमनुपूर्वाण्येके समामनन्ति ।
अग्न्य-न्वाधानमशनं व्रतोपायनमित्येके ।
व्रतोपायनमशनमग्न्यन्वाधानमित्येके
२
पुरा बर्हिष आहर्तोर्जायापती सर्पिर्मिश्रमश्नीयातां यदन्यन्माषेभ्यो
माँसाच्च ३
पुरा वत्सानामपाकर्तोरित्यपरम् ४
ततो यजमानः केशश्मश्रु
वापयते ५
अपरेणाहवनीयमतिक्रम्य दक्षिणत उदगावृत्त उपविश्याप आचामति
पय-स्वतीरोषधयः इत्येतया ६
तत आदित्यमुपतिष्ठते सम्राडसि
व्रतपा असि व्रतपतिरसि व्रतमारभे । तत्ते प्रब्रवीमि तच्छकेयं तेन
शक्रेयं तेन राध्यासम् इति ७
यदि निम्रुक्ते सूर्ये
व्रतमुपेयादाहवनीयमेवैतेन
मन्त्रेणोपतिष्ठते ८
बर्हिषा पूर्णमासे व्रतमुपैति
वत्सैरमावास्यायामिति विज्ञायते ९
३