०२

अन्तराग्नी पशवो देवसँ सदमागमन् ।

तान् पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥

इत्यन्तराग्नी तिष्ठन् जपति १

इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः ।

ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥

इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः ।

तान् पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥

इति गार्हपत्यम् २

अयं पितृणामग्निरवाड्ढव्या पितृभ्य आ ।

तं पूवः परिगृह्णाम्यविषं नः पितुं करत् ॥

इत्यन्वाहार्यपचनम् ३

अजस्रं त्वाँ सभापाला विजयभागँ समिन्धताम् ।

अग्ने दीदाय मे सभ्य विजित्यै शरदः शतम् ॥

इति सभ्यम् ४

अन्नमावसथीयमभिहराणि शरदः शतम् ।

आवसथे श्रियं मन्त्रमहिर्बुध्नियो नियच्छतु ॥

इत्यावसथीयम् ५

इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमि ॥

इदमहमिन्द्र ज्येष्ठेभ्यो रुद्रे भ्यो यज्ञं प्रब्रवीमि ॥

इदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमि ॥

इति सर्वान् ६