०१

याजमानं व्याख्यास्यामः १
पर्वणि यजमानः केशश्मश्रु वापयते २
अग्निहोत्रँ हुत्वा

देवा गातुविदो गातुं यज्ञाय विन्दत ।

मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यताम् ॥

इत्यध्वर्युर्जपित्वा प्रातरग्नीनन्वादधाति ३
ममाग्ने वर्चो विहवेष्वस्तु इति पूर्व-मग्निं गृह्णाति ४
तूष्णीमपरौ ५
द्वितीयया गार्हपत्यं तृतीययान्वाहार्यपचनम् ६
तिसृभिस्तिसृभिर्वैकैकम् ७
उत्तमां तु जपेदाहवनीये वादध्यात् ८
व्याहृतीभिरग्न्यन्वाधानमेके समामनन्ति ९ याजमानमेके १०
अग्नीनन्वाधीयमानान् यजमान उपतिष्ठते

अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने ।

आदित्यं ज्योतिषां ज्योतिरुत्तमँ श्वो यज्ञाय रमतां देवताभ्यः ॥

वसून् रुद्रा नादित्यानिन्द्रे ण सह देवताः ।

ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥

इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान् देवान् परिगृह्णामि पूर्वः ।

अग्निर्हव्यवाडिह तानावहतु पौर्णमासँ हविरिदमेषां मयि ॥

आमावास्यँ हविरिदमेषां मयि ॥

इति यथालिङ्गमाहवनीयम् ११