१८

नाभिदेशमभिमृशति घसीना मे मा सम्पृक्थाः ॥ ऊर्ध्वं मे नाभेः सीद ॥ इन्द्र स्य त्वा जठरे सादयामि इति १
प्राणायतनानि सम्मृशति वाङ्म आसन् नसोः प्राणः इत्येतैर्मन्त्रैर्यथारूपम् २
अद्भिः पात्रं प्रक्षाल्य पूरयित्वा प्राङ् निनयति दिशो जिन्व इति ३
अपरं पूरयित्वाभ्यात्मं निनयति मां जिन्व इति ४
यत्रास्मै ब्रह्मभागं परिहरति तन्न पुरा सँ स्थायाः प्राश्नीयात् ५
यत् किञ्च यज्ञे मृन्मयं भिद्येत तदभिमृशेत्

भूमिर्भूमिमगान्माता मातरमप्यगात् ।

भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम् ॥

इति ६
अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति ब्रह्मन् ब्रह्मासि ब्रह्मणे त्वाहुताद्य मा मा हिँ सीरहुतो मह्यँ शिवो भव इति ७ यत्रैनमामन्त्रयते ब्रह्मन् प्रस्थास्यामः इति तत् प्रसौति हिं देव सवितरेतत्ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि ॥ ॐ प्रतिष्ठ इति ८
सोऽत्रैवास्त आ यज्ञस्य सँ स्थानात् ९
सँ स्थिते यज्ञे यथान्ववेतमुपनिष्क्रम्याहवनीये समिधमादधाति नमः कृताय कर्मणेऽकृतस्य कर्मणे नमः स्वाहा इति १०
आधायोपतिष्ठते

अयाड् यज्ञं जातवेदा अदब्धो अन्तरः पूर्वो अस्मिन् निषद्य ।

सन्वन् सनिँ सुविमुचा विमुञ्च धेह्यस्मासु द्र विणं जातवेदो यच्च भद्र म् ॥

प्र णो यक्ष्यभिवस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या ॥

इति ११
एवंविहितमेवास्येष्टिपशुबन्धेषु ब्रह्मत्वं भवति ब्रह्मत्वं भवति १२ १८

इति तृतीयः प्रश्नः