१७

यत्रैनमामन्त्रयते ब्रह्मन् सामिधेनीरनुवक्ष्यामि इति तत् प्रसौति

हिं प्रजापतेऽनुब्रूहि यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।

सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥

ओमनुब्रूहि इति १
यत्रैनमामन्त्रयते ब्रह्मन् प्रवरायाश्रावयिष्यामि इति तत् प्रसौति हिं वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येषु ॥

देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।

सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥

ओमाश्रावय इति २
यत्रास्मै प्राशित्रं परिहरति तत् प्रतीक्षते सूर्यस्य त्वा चक्षुषा प्रतिपश्यामि इति ३
ऋतस्य पथा पर्येहि इत्याह्वियमाणमभिमन्त्रयते ४
अप उपस्पृश्य प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इति ५
व्यूह्य तृणानि पुरस्ताद्दण्डं भूमौ प्रतिष्ठापयति पृथिव्यास्त्वा नाभौ सादयामि इति ६
अवेक्षते सुपर्णस्य त्वा गरुत्मतश्चक्षुषा-वपश्यामि इति ७ अथैनदङ्गुष्ठेनोपमध्यमया चाङ्गुल्यादायासम्म्लेत्यावगिरति अग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणा ॥ इन्द्र स्य त्वा जठरे सादयामि इति ८
अप आचम्य पुनरेवाप आचामति या अप्स्वन्तर्देवतास्ता ँशमयन्तु ॥ स्वाहाकृतं जठरमिन्द्र स्य गच्छ स्वाहा इति ९
१७