यत्रैनमामन्त्रयते ब्रह्मन्नपः प्रणेष्यामि इति तत् प्रसौति
हिं प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ॐ प्रणय इति १
यत्रनमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति तत् प्रसौति
हिं प्रोक्ष यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ॐ प्रोक्ष इति २
यत्रैनमामन्त्रयते ब्रह्मन्नुत्तरं परिग्राहं
परिग्रहीष्यामि इति तत् प्रसौति
हिं बृहस्पते परिगृहाण वेदिँ स्वगा वो देवाः सदनानि सन्तु ।
तस्यां बर्हिः प्रथताँ साध्वन्तरहिँ स्रा णः पृथिवी देव्यस्तु ॥
देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ॐ परिगृहाण इति ३
यत्रैनमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति तत्
प्रसौति हिं प्रोक्ष यज्ञम् इत्येतया ४
१६