१५

तत्रैषोऽत्यन्तप्रदेशो वाग्यत एव मन्त्रवत्सु कर्मसु भवति याथाकामी तूष्णीकेषु १
प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृतः २
परुषिपरुषि वाचं यच्छतीति विज्ञायते ३
अथैकेषां प्रातरनुवाक उपाकृते सामिधेनीषु प्रयाजानूयाजेषु स्तुतशस्त्रेष्विति वाचमेव यच्छेदिति ४
अथैकेषां यदृचा यदि यजुषा यदि साम्ना क्रियते वाचमेव यच्छेदिति ५
अथैकेषामन्योन्यस्मै वा ऋत्विजो यज्ञसम्प्रदायं चरन्ति । यावद्वा ऋचार्त्विज्यं क्रियते होतृष्वेव ताव-द्यज्ञो भवति । यावद्यजुषाध्वर्युष्वेव तावत् । यावत् साम्नोद्गातृष्वेव तावत् । अथ यत्र क्व च यज्ञस्य विहितं ब्रह्मण्येव तावद्यज्ञो भवति । तस्मादेतस्मिन्नन्तर्धौ ब्रह्मा वाचंयमः स्यात् ६
स यदि प्रमत्तो व्याहरेदेता एव व्याहृतीरभिव्याहरेत् भूर्भुवः सुवः इति वैष्णवीं वार्चम् ७
यज्ञो वै विष्णुर्यज्ञेनैव यज्ञँ सन्तनोतीति विज्ञायते ८
१५