१४

श्वो भूते यजमानो ब्रह्माणं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इति १
वृतो जपति अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि ॥ देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणम् ॥ तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब् जगत्यै जगत्यनुष्टुभेऽनुष्टुप् पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्यो देव्भ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ॥ ब्रह्म भूर्भुवः सुवः ॥ बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपाय इत्युक्त्वापरेणाहवनीयमतिक्रम्य दक्षिणतो ब्रह्मसदनात् तृणं निरस्यति निरस्तः परावसुः इति २
अप उपस्पृश्य ब्रह्मसदन आहवनीयमभिमुख उपविशति इदमहमर्वाग्वसोः सदने सीदामि ॥ प्रसूतो देवेन सवित्रा बृहस्पतेः सदने सीदामि ॥ तदग्नये प्रब्रवीमि तद् वायवे तत् सूर्याय तत् पृथिव्यै इति ३
१४