१३

अथास्मै नामगृह्य प्रहरति निरमुं नुद ओकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषेन्द्र एणं पराशरीत् ॥ इहि तिस्रः परावत इहि पञ्च जनाँ अति । इहि तिस्रोऽति रोचना यावत् सूर्यो असद् दिवि ॥ परमां त्वा परावतमिन्द्रो नयतु वृत्रहा । यतो न पुनरायसि शश्वतीभ्यः समाभ्यः इति १
हतोऽसाववधि-ष्मामुम् इति ब्रूयाद्यं द्विष्यात् २ सँ स्थिते कपालानि विमुञ्चति यानि घर्मे कपालानि इति ३
एतयैव यजमानोऽभिमन्त्रयेत ४
सँ स्थाप्य पौर्णमा-सीमिन्द्रा य वैमृधाय पुरोडाशमेकादशकपालमनुनिर्वपति ५
तत्र याथाकामी प्रक्रमे । प्रक्रमात् तु नियम्यते ६
सप्तदशसामिधेनीको यथाश्रद्धदक्षिणः ७
शर्धवत्यौ संयाज्ये ८
अपि वैनँ समानतन्त्रं पौर्णमास्यां निर्वपेत् ९
तमेतं नित्यवदेके समामनन्ति काम्यवदेके १०
तं यदा निर्वपेन्न तत ऊर्ध्वं विरमेत् ११ एवंविहिताभ्यां दर्शपूर्णमासाभ्यां यावज्जीवं यजते । त्रिँ शतं वा वर्षाणि त्रिँ शतं वा वर्षाणि १२
१३