अन्तर्वेद्यूर्ध्वस्तिष्ठन् ध्रुवया समिष्टयजुर्जुहोति १
देवा गातुविदः इति
प्रथमा-माहुतिँ हुत्वा बर्हिरनुप्रहरति २
वाचि स्वाहा इति द्वितीयाम् ३
वाते धाः स्वाहा इति तृतीयाम् ४
होतृषदनाद् वेदिमभिस्तृणाति
अभिस्तृणीहि परिधेहि वेदिं जामिं मा हिँ सीरमुया शयाना ।
होतृषदना हरिताः सुवर्णा निष्का इमे यजमानस्य ब्रध्ने इति ५
अन्तर्वेदि प्रणीता आसादयति को वोऽयोक्षीत् स वो विमुञ्चतु
इति ६
ततः पत्नीं विमुञ्चति इमं वि ष्यामि वरुणस्य पाशम् इति ७
आदाय
योक्त्रं पत्नी सहाप उपगृह्णीते ८
अञ्जलावस्यै पूर्णपात्रमानयति ९
आनीयमाने जपति समायुषा सं प्रजया इत्येताम् १०
मुखं
विमृज्योत्तिष्ठति पुष्टिमती पशुमती
प्रजावती गृहमेधिनी भूयासम् इति ११
तत उपवेषमुत्करे
पुरस्तात्प्रत्यञ्चँ स्थविमत उपगूहति यं
देवा मनुष्येषूपवेषमधारयन् । ये अस्मदपचेतसस्तानस्मभ्यमिहा कुरु ॥
उपवेषोपविड्ढि नः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो
ध्रुवाननपगान् कुरु इति १२
योपवेषे शुक् सामुमृच्छतु
यं द्विष्मः इति यं द्वेष्टि तस्य नाम गृह्णाति १३
१२