यासरस्वती विशोभगीना तस्यै ते स्वाहा ॥ या सरस्वती वेशभगीना तस्यै ते स्वाहा ॥ इन्द्रो पानस्य वेशान् सुमनसः सजातान् कुरु स्वाहा ॥ यदकर्म यन्नाकर्म यदत्यगाम यदत्यरीरिचाम यन्नात्यरीरिचाम तत् त्वं विष्णो यज्ञे यज्ञं प्रतिष्ठापय स्वाहा ॥ यत इन्द्र भयामहे ततो नो अभयं कृधि ॥ मघवञ्छग्धि तव तन्न ऊतये । विद्विषो विमृधो जहि स्वाहा ॥
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्र ःपुर एतु नः स्वस्तिदा अभयङ्करः स्वाहा ॥
आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः ।
यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम स्वाहा ॥
अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु ।
अग्ने तदस्य कल्पय त्वँ हि वेत्थ यथातथँ स्वाहा ॥
पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः ।
अग्ने तदस्य कल्पय त्वँ हि वेत्थ यथातथँ स्वाहा ॥
यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः ।
अग्निष्टद्धोता क्रतुविद् विजानन् यजिष्ठो देवाँ ऋतुशो यजाति स्वाहा ॥
यदस्य कर्मणोऽत्यरीरिचं यद् वा न्यूनमिहाकरम् ।
अग्निष्टत् स्विष्टकृद् विद्वान् सर्व ँसुहुतं करोतु मे ॥
अग्नये स्विष्टकृते सुहुतहुत आहुतीनां कामानाँ समर्धयित्रे स्वाहा इति १
प्राजापत्यामित्युत्तमाँ हुत्वा २
११