१०

प्रत्याहुति गृहीत्वा वा १
ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाँ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् स्वाहा ॥ आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् स्वाहा ॥

यद् वो देवा अतिपादयानि वाचाचित् प्रयतं देवहेडनम् ।

अरायो अस्माँ अभिदुच्छुनायतेऽन्यत्रास्मन्मरुतस्तन्निन्धेतन स्वाहा ॥

ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते ।

अयँ समुद्र उत विश्वमेषजः स्वाहाकृतस्य समु तृप्णुतर्भुवः स्वाहा ॥

उद् वयं तमसस्परि ॥ उदु त्यम् ॥ चित्रम् ॥ इमं मे वरुण ॥ तत् त्वा यामि ॥ त्वं नो अग्ने ॥ स त्वं नो अग्ने ॥ त्वमग्ने अयासि ॥ प्रजापते ॥

इमं जीवेभ्यः परिधिं दधामि मैषां ल्नु गादपरो अर्धमेतम् ।

शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन स्वाहा ॥

इष्टेभ्यः स्वाहा ॥ वषडनिष्टेभ्यः स्वाहा ॥ भेषजं दुरिष्ट्यै स्वाहा ॥ निष्कृत्यै स्वाहा ॥ दौरार्ध्यै स्वाहा ॥ दैवीभ्यस्तनूभ्यः स्वाहा ॥ ऋद्ध्यै स्वाहा ॥ समृद्ध्यै स्वाहा २
१०