०९

शंयुवन्तं वा १
यदि शंयुवन्तं कुर्याद् वेदात् तृणमपादाय जुह्वामग्रमञ्ज्यात् स्रुवे मध्यमाज्यस्थाल्यां मूलम् २
तस्य स एव कल्पो यः प्रस्तरस्य ३
इध्मप्रव्रश्चनान्यन्वाहार्यपचनेऽभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति ४
चतुर्गृहीत आज्ये फलीकरणानोप्य जुहोति अग्नेऽदब्धायोऽशीततनो इति प्रतिपद्य स्वाहाकारान्तेन ५ आज्येनैव पिष्टलेपं जुहोति उलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत् कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहा इति ६
वेदँ होता पत्न्या उपस्थे त्रिरस्यति वेदोऽसि ॥ वित्तिरसि ॥ विदेय इत्येतैर्मन्त्रैः ७ अस्तमस्तं पत्नी प्रतिनिरस्यति निर्द्विषन्तं निररातिं नुद इति ८
स्वयं वा पत्न्यस्यते ९
पुमाँ सं ह जानुका भवतीति विज्ञायते १०
अत्रैके पत्न्या विमोचनँ समामनन्ति ११
वेदँ होताहवनीयात् स्तृणन्नेति घृतवन्तं कुलायिनम् इत्यनुवाकशेषेण १२
अत्रैके पार्वणौ होमौ समामनन्ति १३
स्रुवेण सर्वप्रायश्चित्तानि जुहोतीति विज्ञायते १४