कुह्वा अनुब्रूहि इति सम्प्रेष्यति १
आश्राव्याह कुहूं यज इति २
वषट्कृते
जुहोति ३
परिश्रिते देवानां पत्नीर्यजति । अप्रिश्रिते वा ४
देवानां
पत्नी-भ्योऽनुब्रूहि इति सम्प्रेष्यति ५
आश्राव्याह देवानां पत्नीर्यज इति
६
वषट्कृते जुहोति ७
अग्नये गृहपतयेऽनुब्रूहि इति सम्प्रेष्यति ८
आश्राव्याह
अग्निं गृहपतिं यज इति ९
वषट्कृते जुहोति १०
पत्नीमन्वारम्भयित्वा स्रुवेण
गार्हपत्ये जुहोति सं पत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ
धुर्यावभूताम् । सञ्जानानौ विजहतामरातीर्दिवि
ज्योतिरजरमारभेताँ स्वाहा इति ११
स्रुवेण
होतुरङ्गु-लिपर्वणी अनक्ति १२
अपरमङ्क्त्वा पूर्वमनक्ति १३
चतुर
आज्यबिन्दून् होत्र इडामादधाति षडग्नीधे १४
उपहूयमानामिडामन्वारभेते अध्वर्युः पत्नी च १५
उपहूतामिडां प्राश्नाति होता । प्राश्नात्याग्नीध्रः उपहूता पृथिवी
मातोप मां माता पृथिवी ह्वयताम् । अग्निराग्नीध्रादायुषे वर्चसे
जीवात्वै पुण्याय इति १६
प्राश्य मार्जयेते १७
इडान्तं भवति १८
८