सस्रुवे जुहूपभृतावध्वर्युरादत्ते वेदँ होता स्फ्यं चाज्यस्थालीमुदकमण्डलुं
चाग्नीध्रः १
पत्नीः संयाजयिष्यन्तः प्रत्यञ्चः प्रतिपरियन्ति २
दक्षिणेन
गार्हपत्यमध्वर्युः प्रतिपद्यत उत्तरेणेतरौ ३
कस्तम्भ्याँ स्रुचौ
सादयति अग्ने-र्वामपन्नगृहस्य सदसि सादयामि इति ४
धुरोः
प्रोहति धुरि धुर्यौ पातम् इति ५
यदि पात्र्यां निर्वपेत्
स्फ्ये विमुञ्चेत् ६
अपरेण गार्हपत्यमूर्ध्वज्ञव आसीना ध्वानेनोपाँ शु वा
पत्नीः संयाजयन्ति ७
वेदमुपभृतं कृत्वा सोमायानुब्रूहि इति सम्प्रेष्यति
८
यथागृहीतमाज्यं गृहीत्वाश्राव्याह सोमं यज इति ९
वषट्कृते दक्षिणार्धे
जुहोति १०
यथागृहीतेनैव पत्नीः संयाजयन्ति ११
त्वष्ट्रेऽनुब्रूहि इति
सम्प्रेष्यति १२
आश्राव्याह त्वष्टारं यज इति १३
वषट्कृत उत्तरार्धे जुहोति
१४
उत्तरतः सोमं यजति दक्षिणतस्त्वष्टारमित्येकेषाम् १५
अत्र राकां
पुत्रकामो यजेत सिनीवालीं पशुकामः कुहूं पुष्टिकामः १६
राकाया
अनुब्रूहि इति सम्प्रेष्यति १७
आश्राव्याह राकां यज इति १८
वषट्कृते
जुहोति १९
सिनीवाल्या अनुब्रूहि इति सम्प्रेष्यति २०
आश्राव्याह
सिनीवालीं यज इति २१
वषट्कृते जुहोति २२
७