०६

सह शाखया प्रस्तरमुपरीव प्राञ्चमाहवनीये प्रहरति रोहितेन त्वाग्निर्देवतां गमयतु इत्येतैर्मन्त्रैः । मरुतां पृषतय स्थ दिवं गच्छ ततो नो वृष्टिमेरय इति च १
न प्रतिशृणाति नात्यग्रं प्रहरेत् २
न पुरस्तात् प्रत्यस्येत् ३ जिह्ममिव हस्तं कृत्वा न्यञ्चमन्ततो नियच्छति ४
यत्राभिजानाति आशास्तेऽयं यजमानो-ऽसौ इति तत् प्रस्तरमपिसृज्याह अग्नीद् गमय इति ५
त्रिरञ्जलिनाग्नीध्रः प्रस्तरमूर्ध्वमुद्यौति ६
न विष्वञ्चं वियुयात् ७
ततोऽध्वर्युमाह अनुप्रहर संवदस्व इति ८
पुरस्तादपात्तं तृणमध्वर्युरनुप्रहरति स्वगा तनुभ्यः इति ९ एतदेतत् इति त्रिरङ्गुल्यान्ववदिशति १०
अहीनः प्राणः इति प्राणायतनानि सम्मृशति ११
आयुष्पा अग्नेऽस्यायुर्मे पाहि इति मुखं विमृष्टे १२
ध्रुवासि इतीमामभिमृश्य अगानग्नीत् इति । अगन् इत्याग्नीध्रः । श्रावय इत्यध्वर्युः । श्रौषट् इत्याग्नीध्रः १३ मध्यमं परिधिमन्वारभ्य सम्प्रेष्यति स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहि इति १४
अनूच्यमाने शंयुवाके परिधीन् प्रहरति यं परिधिं पर्यधत्थाः इति मध्यमं यज्ञस्य पाथ उप समितम् इतीतरौ १५ अवाञ्चमुत्तरार्ध्यमङ्गारेषूपोहति १६
जुह्वामुपभृतो मुखमवधाय सँ स्रावेण परिधीनभिजुहोति सँ स्रावभागा स्थेषा बृहन्तः इति १७
अत्रर्त्विजो हविःशेषान् भक्षयन्ति १८