जुहूपभृतावादायौपभृतं जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवान् यज इति १
वषट्कृते जुहोति २
आश्राव्याश्राव्य यज यज इत्येवोत्तराभ्याँ सम्प्रेष्यति ३
अग्रेणाघारसम्भेदं प्रतीचोऽनूयाजान् यजति ४
प्राञ्चमुत्तममनुसँ स्थापयति ५
उत्तमेनेतरावनुसम्भिनत्ति ६
प्रत्याक्रम्यायतने स्रुचौ सादयित्वा
वाजवतीभ्यां व्यूहति ७
वाजस्य मा प्रसवेन इति
दक्षिणेनोत्तानेन सप्रस्तरां
जुहूमुद्गृह्णाति । अथा सपत्नाँ इन्द्रो मे
निग्रामेणाधराँ अकः इति सव्येन नीचोपभृतं नियच्छति ८
उद्ग्राभं च इति
जुहूमुद्गृह्णाति । निग्राभं च इत्युपभृतं नियच्छति ९
ब्रह्म देवा
अवीवृधन् इति प्राचीं जुहूं प्रोहति १०
अथा सपत्नानिन्द्रा ग्नी मे
विषूचीनान् व्यस्पताम् इति प्रतीचीमुपभृतं बहिर्वेदि निरस्यति
११
अद्भिरभ्युक्ष्योपभृतम-भ्युदाहृत्य जुह्वा सँ स्रावेण परिधीननक्ति ।
वसुभ्यस्त्वा इति मध्यमं रुद्रे भ्य-स्त्वा इति दक्षिणम्
आदित्येभ्यस्त्वा इत्युत्तरम् १२
न प्रस्तरे
जुहूँ सादयति १३
विधृतीभ्यां प्रस्तरँ समुल्लिप्य बर्हिषि विधृती
अपिसृज्य स्रुक्षु प्रस्तरमनक्ति । अक्तँ रिहाणाः इति
जुह्वामग्रं वियन्तु वयः इत्युपभृति मध्यं प्रजां योनिं
मा निर्मृक्षम् इति ध्रुवायां मूलम् १४
एवमेव द्वितीयमनक्ति । एवं
तृतीयम् १५
आयुषे त्वा इत्यक्तस्य तृणमपयम्य जुह्वां
प्रस्तरं प्रति-ष्ठाप्याश्राव्यासीनः सम्प्रेष्यति इषिता
दैव्या होतारो भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता
ब्रूहि इति १६
अनूच्यमाने सूक्तवाके १७
५