दक्षिणसद्भ्य उपहर्तवै इति सम्प्रेष्यति १
य ऋत्विजामुत्तरतः स्युस्तान्
ब्रूयाद् दक्षिणत एत इति २
तेभ्यो दक्षिणत आसीनेभ्योऽन्वाहार्यं
दक्षिणां ददाति ब्राह्मणा अयं व ओदनः इति ३
उत्तरतः परीत इति पुनराह
४
हविः-शेषानुद्वास्योल्मुके अपिसृज्य सम्प्रेष्यति ब्रह्मन्
प्रस्थास्यामः समिधमाधायाग्नीत् परिधी ँ!
श्चाग्निं च सकृत्सकृत् सम्मृड्ढि इति ५
प्रसूतो
ब्रह्मणाग्नीध्रो-ऽनूयाजसमिधमादधाति एषा
तेऽग्ने समित् तया वर्धस्व चाप्यायस्व । वर्धतां च ते यज्ञपतिरा च
प्यायताँ स्वाहा इति ६
अस्फ्यैरिध्मसन्नहनैराग्नीध्रः परिधीँ श्चाग्निं च
सकृत्सकृत् सम्मार्ष्टि । तूष्णीं परिधीन् ७
अग्ने वाजजिद् वाजं त्वा
ससृवाँ सं वाजं जिगिवाँ सं वाजिनं वाजजितं वाजजित्यायै
सम्मार्ज्म्यग्निमन्नादमन्नाद्याय इत्यग्निँ सम्मार्ष्टि
८
अथैतानि सम्मार्जनान्यद्भिः सँ -स्पृश्याहवनीये प्रहरति यो भूतानामधिपती
रुद्र स्तन्तिचरो वृषा । पशूनस्माकं मा हिँ सीरेतदस्तु हुतं तव स्वाहा
इति ९
उत्कर उदस्यतीत्येकेषाम् १०
४