०२

तदध्वर्युरेतं मन्त्रं जपति उपहूतः पशुमानसानि इति १
यत्राभिजानाति उपहूतोऽयं यजमानः इति तद् यजमान एतमेव मन्त्रं जपति २ उपहूतायामिडायामवान्तरेडाँ होता प्राश्नाति वाचस्पतये त्वा हुतं प्राश्नामि सदसस्पतये त्वा हुतं प्राश्नामि इति ३
उपहूतामिडां यजमानपञ्चमा ऋत्विजः प्राश्नन्ति इडे भागं जुषस्व नो जिन्व गा जिन्वार्वतः । तस्यास्ते भक्षिवाणः स्याम सर्वात्मानः सर्वगणाः इति ४
प्राश्य तूष्णीमास्त आ मार्जनात् ५
अन्तर्वेदि पवित्रवति मार्जयन्ते मनो ज्योतिर्जुषताम् इति ६
आग्नेयं पुरोडाशं प्राञ्चं विरुज्य प्राशित्रहरणमादाय प्राशित्रमवद्यति अज्यायो यवमात्रादाव्याधात् कृत्यतामिदम् । मा रूरुपाम यज्ञस्य शुद्धँ स्विष्टमिदँ हविः इति ७
एवमुत्तरेषामविरुज्य ८ अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या यवमात्रं पिप्पलमात्रं वा संवृत्य प्राशित्रहरणे निधायाभिघार्य वेदेनोपयम्याग्रेणाहवनीयं ब्रह्मणे परिहरति ९
अग्रेण ध्रुवां यजमानभागं निधाय १०