०१

इडापात्रमुपस्तीर्याग्नेयस्य पुरोडाशस्य दक्षिणार्धात् पूर्वमिडावदानमवद्यति मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् । दक्षिणार्धादसम्भिन्दन्नवद्या-म्येकतोमुखाम् इति १
पृष्ठँ सम्भिद्य पूर्वार्धाद् यजमानभागमवद्यत्यणुमिव दी-र्घम् २ सम्भेदाद् द्वितीयमिडावदानमवद्यति ३
एवँ सर्वेषाँ हविषामिडाँ समवद्यति ४
स्थवीयाँ स्येतानि सौविष्टकृतेभ्यो भवन्ति ५ अभिघार्यान्तरा हवीँ षि स्रुचश्च हृत्वा होत्र इडामादधाति ६
स्वयं वा होतेडामादत्ते ७
अग्रेण होतारमध्वर्युर्दक्षिणातिक्रामत्यनुत्सृजन्निव ८
होतेडयाध्वर्युं परिगृह्णाति ९
पश्चात् प्राङुपविश्य स्रुवेण होतुरङ्गुलिपर्वणी अनक्ति १०
पूर्वमक्त्वापरमनक्ति ११
यथेतं प्रतिपरेत्य पुरस्तात् प्रत्यङ्ङासीन इडाया इडामादधाति १२ हस्त्याँ होत्रे सकृदुपस्तृणाति द्विरादधाति सकृदभिघारयति १३
स्वयं वा होतोत्त-रमिडावदानमादत्ते १४
लेपादुपस्तृणाति १५ लेपादभिघारयति १६
उपहूय-मानामिडामन्वारभेते अध्वर्युर्यजमानश्च १७
यत्राभिजानाति दैव्या अध्वर्यव उपहूता उपहूता मनुष्याः इति १८