१९

अत्र नारिष्ठान् होमाञ्जुहोति

दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन ।

नारिष्ठयोः प्रशिषमीडमानो देवानां दैव्येऽपि यजमानोऽमृतोऽभूत् स्वाहा ॥

यं वां देवा अकल्पयन्नूर्जो भागँ शतक्रतू ।

एतद्वां तेन प्रीणानि तेन तृप्यतमँ हहौ स्वाहा ॥

अहं देवानाँ सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति ।

अहं नारिष्ठावनुयजामि विद्वान् यदाभ्यामिन्द्रो अदधाद् भागधेयँ स्वाहा ॥

अदारसृद् भवत देव सोमास्मिन् यज्ञे मरुतो मृडता नः ।

मा नो विददभिभा मो अशस्तिर्मा नो विदद् वृजना द्वेष्या या स्वाहा ॥

इति १
ततः सम्प्रेष्यति अग्नये स्विष्टकृतेऽनुब्रूहि इति २
जुह्वामुपस्तीर्य सर्वेषाँ हविषामुत्तरार्धात् सकृत्सकृच्चतुरवदानस्यावद्यति द्विः पञ्चावदानस्य ३
स्थवीयाँ स्येतानि दैवतेभ्यो भवन्ति ४ द्विरभिघार्य न हविः प्रत्यभिघारयति ५
अत्याक्रम्याश्राव्याह अग्निँ स्विष्टकृतं यज इति ६
वषट्कृत उत्तरार्धपूर्वा-र्धेऽतिहाय पूर्वा आहुतीर्जुहोति ७
प्रत्याक्रम्यायतने स्रुचौ सादयति ८
अत्रैके प्राशित्रँ समामनन्ति । उपरिष्टादेके ९
१९

इति द्वितीयः प्रश्नः