पूर्वां पूर्वा ँसँ हितामाहुतिं जुहोत्या स्विष्टकृतः १
अपि वा
स्रुच्यमाघा-रमभिजुहुयात् २
तत उपाँ शुयाजाय सम्प्रेष्यति
विष्णवे इत्युपाँ शु अनुब्रूहि इत्युच्चैः ३
यथागृहीतमाज्यं
गृहीत्वात्याक्रम्याश्राव्याह विष्णुम्
इत्युपाँ शु यज इत्युच्चैः ४
वषट्कृते जुहोति ५
अग्नीषोमीयमेक
उपाँ शुयाजँ समामनन्ति प्राजापत्यमेके ६
स एष पौर्णमास्यामेव भवति ७
यथाग्नेयेनैवमुत्तमेन पुरो-डाशेन प्रचरति अग्नीषोमाभ्याम् इति
पौर्णमास्याम् इन्द्रा ग्निभ्याम्
इत्यमावा-स्यायामसन्नयतः ८
अथ यदि
सन्नयेत् इन्द्रा यानुब्रूहि इति सम्प्रेष्यति ९
महेन्द्रा य
इति वा यदि महेन्द्र याजी भवति १०
जुह्वामुपस्तीर्य द्विः
शृत-स्यावद्यति द्विर्दध्नश्चतुरवदानस्य त्रिः
पञ्चावदानस्य ११
अभिघार्यात्याक्रम्या-श्राव्याह इन्द्रं यज इति १२
महेन्द्र म् इति वा १३
वषट्कृते जुहोति १४
प्रत्याक्रम्य स्रुवेण पार्वणौ
होमौ जुहोति ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताँ सुवीर्य
ँरायस्पोषँ सहस्रिणम् । प्राणाय सुराधसे पूर्णमासाय स्वाहा इति
पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय
आप्यायमाना । सा नो दोहताँ सुवीर्य ँरायस्पोषँ
सहस्रिणम् । अपानाय सुराधसेऽमावास्यायै स्वाहा
इत्यमावास्यायाम् १५
१८