१७

सोमायानुब्रूहि इति सम्प्रेष्यति १
यथागृहीतमाज्यं गृहीत्वात्याक्रम्याश्राव्याह सोमं यज इति २
वषट्कृते दक्षिणार्धपूर्वार्धे प्रबाहुक् पूर्वया जुहोति ३ नैतां दक्षिणेनान्यामाहुतिं जुहोति ४
प्रत्याक्रम्य ५ तत्रैषोऽत्यन्तप्रदेशः स्रुवेणैवा-ज्यदोहयोरित्यवद्यति हस्तेन पुरोडाशस्य ६
जमदग्नीनामेव पञ्चावत्तं चतुर-वत्तमितरेषाम् ७ अप्यजामदग्न्यो जामदग्न्यमामन्त्र्य पञ्चावत्तं कुर्वीत ८
ततः सम्प्रेष्यति अग्नयेऽनुब्रूहि इति ९ जुह्वामुपस्तीर्याग्नेयस्य पुरोडाशस्याङ्गुष्ठेन माँ ससँ हिताभ्यामङ्गुलीभ्यां मध्यादवदाय पूर्वार्धादवद्यति पश्चार्धात् तृतीयं यदि पञ्चावदानः मा भेर्मा संविक्था मा त्वा हिँ सिषं मा ते तेजोऽपक्रमीत् । भरतमुद्धरेमनुषिञ्च । अवदानानि ते प्रत्यवदास्यामि । नमस्ते अस्तु मा मा हिँ सीः इति १० अङ्गुष्ठपर्वमात्राण्यवदानान्यसम्भिन्दन्नवद्यति ११
अवदाना-न्यभिघार्य हविः प्रत्यभिघारयति यदवदानानि तेऽवद्यन् विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत् तत् त आप्यायतां पुनः इति १२
अत्याक्रम्याश्राव्याह अग्निं यज इति १३
वषट्कृते मध्ये जुहोति १४
अपिदधदिवाप्रक्षिणन्नाज्यँ हुत्वा पुरोडाशं जुहोति तत आज्यम् १५
१७