अनपव्याहरन्तः प्रचरन्तीति विज्ञायते १
यत्राभिजानाति घृतवतीमध्वर्यो
स्रुचमास्यस्व इति तज्जुहूपभृतावादायात्याक्रम्याश्राव्याह
समिधो यज इति २
वषट्कृते जुहोति ३
आश्राव्याश्राव्य यज यज
इत्येवोत्तरेभ्यः सम्प्रेष्यति ४
अपरेणाघारसम्भेदं प्राचः
प्रयाजानभिक्रामं जुहोति ५
समानत्र वा ६
अपि वा समिधः पुरस्ताद् यजति
तनूनपातं दक्षिणत इडः पश्चाद् बर्हिरुत्तरतः स्वाहाकारं मध्ये ७
यत्र समिद्धतमस्तत्र सर्वा आहुतीर्जुहुयात् ८
चतुर्थ ँ!
होष्यन्नौपभृतादर्धं जुह्वामानयते ९
पञ्च
प्रयाजानिष्ट्वा प्रत्याक्रम्य यज्जुह्वामाज्यं
परिशिष्टं तेन हवी ँष्यभिघारयति ध्रुवामग्रेऽथाग्नेयं
पुरोडाशमथोत्तरमथ शृतमथ दध्युपभृतमन्ततः १०
अथायतने स्रुचौ सादयित्वा
पुनरादत्ते ११
एवमादत्ते भवत आ स्विष्टकृतः १२
तत
आज्यभागाभ्यां प्रचरति १३
अग्नयेऽनुब्रूहि इति
सम्प्रेष्यति १४
जुह्वां चतुर्गृहीतमाज्यं गृहीत्वा पञ्चगृहीतं
वात्याक्रम्या-श्राव्याह अग्निं यज इति १५
वषट्कृत
उत्तरार्धपूर्वार्धे जुहोति १६
नैतामुत्तरेणान्यामाहुतिं
जुहोति १७
प्रत्याक्रम्य १८
१६