अपर आग्नीध्रः १
स्फ्यं चेध्मसन्नहनानि चान्वारभेते २
ब्रह्माणमामन्त्रयते
ब्रह्मन् प्रवरायाश्रावयिष्यामि इति ३
प्रसूतो ब्रह्मणाश्रावयति
आश्रावय इति ओश्रावय इति वा ४
अस्तु श्रौषट् इत्याग्नीध्रः
प्रत्याश्रावयति ५
तत्रैषो-ऽत्यन्तप्रदेशो यत्र क्व
चाध्वर्युराश्रावयेन्नित्यमेवाग्नीध्रोऽपरेणोत्करं
दक्षिणा-मुखस्तिष्ठन् स्फ्यँ सेध्मसन्नहनमूर्ध्वं धारयमाणः प्रत्याश्रावयति
६
आग्नी-ध्रागारे तु सोमे ७
आश्राव्य प्रवरं प्रवृणीते अग्निर्देवो होता
देवान् यक्षद् विद्वाँ श्चिकित्वान् मनुष्वद्भरतवददोवददोवत् इति
यथार्षेयो यजमानः ८
त्रीनार्षेयान् मन्त्रकृत
इतऊर्ध्वान् वृणीते ९
अपि वा मनुवद् इत्येव
प्रवृणीते १०
पुरोहितस्यार्षेयान् राज्ञः प्रवृणीते ११
ब्रह्मण्वदा च वक्षद् ब्राह्मणा अस्य यज्ञस्य प्रावितारः इत्युक्त्वा
असौ इति होतुरुपाँ शु नाम गृह्णाति १२
मानुषः इत्युच्चैः १३
वेद्यां
तृणमपिसृज्य १४
१५