१४

पाहि माग्ने दुश्चरितादा मा सुचरिते भज इति १
एते एवाक्रमणप्रत्याक्रमणे मन्त्रवती भवतः २
तत्रैषोऽत्यन्तप्रदेशो या उत्तरतः सन्नाहुतीर्जुहोत्युत्तरं परिधि-सन्धिमन्ववहृत्य ता जुहोति । या दक्षिणतो दक्षिणं परिधिसन्धिमन्ववहृत्य ताः ३
दक्षिणेनैव दक्षिणात्याक्रामति सव्येनोदङ् । अपि वा सव्येन दक्षिणा दक्षिणेनोदङ् ४ प्रत्याक्रम्य जुह्वा ध्रुवाँ समनक्ति मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्ताम् इति ५
उन्नीतँ रायः इति स्रुवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहा इति जुहूं प्रत्यभिघारयति ६
यज्ञेन यज्ञः सन्ततः इति जुह्वा ध्रुवाम् ७
निधाय स्रुचौ वेदेरव्यन्तं तृणमादायोत्तरत उत्करे प्राञ्चौ प्रवरा-यावतिष्ठेते क इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति । यज्ञो यज्ञस्य विष्णोः स्थाने तिष्ठामि । वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु । वाचं प्रपद्ये भूर्भुवः सुवः इति पूर्वोऽध्वर्युः । क इदमग्नीद् भविष्यति स इदमग्नीद् भविष्यति । यज्ञो यज्ञस्य विष्णोः स्थाने तिष्ठामि । वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु । वाचं प्रपद्ये भूर्भुवः सुवः इति ८
१४