आहवनीयायाञ्जलिं करोति भुवनमसि वि प्रथस्वाग्ने यष्टरिदं नमः इति १
जुहूमादत्ते जुह्वेहि इति । उपभृतम् उपभृदेहि इति २
उपभृति
जुहूमत्यादधाति सुयमे मे अद्य घृताची भूयास्तँ स्वावृतौ सूपावृतौ इति ३
तत्रैषोऽत्यन्तप्रदेशो यत्र क्व चोपभृति जुहूमत्यादधाति मुखत
एवाध्यूहति मुखत उपावहरति ४
न च सँ शिञ्जयति नाभिदेशे च स्रुचौ
धारयते ५
समं प्राणैरित्येकेषाम् ६
अग्रेण ध्रुवामनवक्लिश्नन्
प्रस्तरमत्याक्रामति अग्नाविष्णू मा वामव
क्रमिषम् इति ७
दक्षिणतोऽवतिष्ठते विष्णो स्थानमसि इति ८
अन्तर्वेदि दक्षिणः पादो भवति । अवघ्र इव सव्यः ९
दक्षिणं
परिधिसन्धिमन्ववहृत्योर्ध्वस्ति-ष्ठन्नन्वारब्धे यजमाने
प्राञ्चमुदञ्चँ सन्ततमृजुमाघारमाघारयति समारभ्योर्ध्वो अध्वरः इति १०
न्यञ्चमाघारयेद् वृष्टिकामस्योर्ध्व ँस्वर्गकामस्य ११
एतं
भूयिष्ठमाहुतीनां जुहोति १२
हुत्वानुप्राणिति १३
हिं
बृहद्भाः इति स्रुचमुद्गृह्णाति १४
असँ स्पर्शयन् स्रुचौ
प्रत्याक्रामति १५
१३