ततः सम्प्रेष्यति अग्नये समिध्यमानायानुब्रहि इति १
आसीन इध्मं प्रणवेप्रणवे
समिधमादधाति २
यत्राभिजानाति समिद्धो अग्न आहुत इति
तदेकामनूया-जसमिधमवशिष्य
सर्वमिध्मशेषमभ्याधाय वेदेनाहवनीयं त्रिरुपवाजयति ३
स्रुवेण
ध्रुवाया आज्यमादाय वेदेनोपयम्योत्तरं परिधिसन्धिमन्ववहृत्य
दक्षिणा-प्राञ्चमासीनः सन्ततमृजुमाघारमाघारयति प्रजापतिं मनसा
ध्यायन् ४
स्रुवे-णाज्यस्थाल्या आज्यमादाय ध्रुवामाप्याययति आ प्यायतां
ध्रुवा घृतेन इत्येतया ५
तत्रैषोऽत्यन्तप्रदेशो यत्र क्व च ध्रुवाया
आज्यमादत्त एवमेवैनामाप्याययति । ध्रुवाया
एवानादिष्टाज्यार्थाः क्रियन्ते ६
ततः
सम्प्रेष्यति अग्नीत् परिधीँ श्चाग्निं च त्रिस्त्रिः सम्मृड्ढि इति ७
सस्फ्यैरिध्मसन्नहनैराग्नीध्रः परिधीँ श्चाग्निं च
त्रिस्त्रिः सम्मार्ष्टि ८
तूष्णीं परिधीन् ९
अग्ने
वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं
वाजजित्यायै सम्मार्ज्म्यग्निमन्नादमन्नाद्याय
इत्यग्निँ सम्मार्ष्टि १०
अग्रेण जुहूं ध्रुवां वोत्तानौ पाणी
प्रतिष्ठाप्य ११
१२