इरा भूतिः पृथिव्यै रसो मोत्क्रमीत् इति कपालानि प्रत्यनक्ति १
अथैनाव-परिवर्गमणिकाषमनक्ति देवस्त्वा सविता
मध्वानक्तु इति २
उपरिष्टादभ्य-ज्याधस्तादुपानक्ति ३
स्वक्तमकूर्मपृषन्तं कृत्वा सान्नाय्ये चालङ्कृत्यान्तर्वेदि
चतुर्होत्रा पौर्णमास्याँ हवीँ ष्यासादयेत् पञ्चहोत्रामावास्यायाम्
४
भूर्भुवः सुवः इति प्रथमायां पौर्णमास्याम् ५
संवत्सरे पर्यागत
एताभिरेवासादयेत् ६
प्रथम एव संवत्सर इत्याश्मरथ्यः ।
संवत्सरेसंवत्सर इत्यालेखनः ७
अपरेण स्रुचः पुरोडाशावासादयति ८
मध्ये
वेदेः सान्नाय्यकुम्भ्यौ सन्धाय दक्षिणास्यां वेदिश्रोण्याँ
शृतमासादयत्युत्तरस्यां दधि ९
अपि वा पूर्व ँशृतमपरं
दधी-त्येकेषाम् १०
अग्रेण ध्रुवां वेदँ सादयति अयं वेदः
पृथिवीमन्वविन्दद् गुहा सतीं गहने
गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा
करोतु इति ११
वेद्यन्तान् परिस्तीर्य होतृषदनं कल्पयति १२
जघनेन
वेदिमुदगग्रैर्दर्भैः सँ स्तीर्णं भवति १३
११