अथैना अभिमन्त्रयते एता असदन् इत्यनुवाकशेषेण १
विष्णूनि स्थ वैष्णवानि
धामानि स्थ प्राजापत्यानि इत्याज्यान्यभिमन्त्रयते २
सस्रुवामाज्यस्थालीं वेदं पात्रीं चादायापरेण
गार्हपत्यमुपविश्य इदमहँ सेनाया अभीत्वर्यै मुखमपोहामि इति वेदेन
पुरोडाशात् साङ्गारं भस्मापोह्याभिमन्त्रयते सूर्य
ज्योतिर्विभाहि महत इन्द्रि याय बलाय इति ३
पात्र्!
यामुपस्तृणाति स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं
कल्पयामि । तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेध
सुमन-स्यमानः इति ४
आज्येनाभिघारयति आप्यायतां
घृतयोनिरग्निर्हव्यानुमन्यताम् । खमङ्क्ष्व
सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये जुष्टमभिघारयामि इति दक्षिणम्
। तूष्णीमुत्तरम् ५
सान्नाय्यमभिघारयति यस्त आत्मा पशुषु प्रविष्टो देवानां
विष्ठामनु यो वितस्थे । आत्मन्वान् सोम घृतवान् हि भूत्वा देवान् गच्छ
सुवर्विन्द यजमानाय मह्यम् इति ६
पात्र्यामुद्वासयति आर्द्र ः!
प्रथ-स्नुर्भुवनस्य गोपाः । शृत उत्स्नाति जनिता मतीनाम् इति ७
न
पर्यावर्तयति न भिनत्ति ८
१०