०९

धातौधातौ मन्त्रं जपति १
अत्रैकेऽनूयाजार्थे उल्मुके निरूहन्ति २
प्रस्तरं धारयमाणोऽपरेणाहवनीयँ सँ स्पृष्टान् परिधीन् परिदधाति । उदगग्रं मध्यमं गन्धर्वोऽसि विश्वावसुः इति इन्द्र स्य बाहुरसि इति दक्षिणं मित्रावरुणौ त्वा इत्युत्तरम् ३
अभ्यग्रमाहवनीयं दक्षिणमवाग्रमुत्तरम् ४
एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ५
सूर्यस्त्वा पुरस्तात् पातु इत्याहवनीयमभिमन्त्र्य मध्येऽग्नेरूर्ध्वं आघारसमिधावादधाति ६
वीतिहोत्रं त्वा कवे इति दक्षिणाम् ७
तूष्णीमुत्तराम् ८
बर्हिषः समावनन्तर्गर्भौ विधृती कृत्वा मध्ये वेदेरुदी-चीनाग्रे निदधाति विशो यन्त्रे स्थः इति ९ विधृत्योः प्रस्तरँ सादयति वसूनाँ रुद्रा णामादित्यानाँ सदसि सीद इति १० प्रस्तरे जुहूं जुहूरसि घृताची इति उत्तरेण जुहूमुपभृतं प्रतिकृष्टतरामधस्ताद् विधृत्योः उपभृदसि इति १३
उत्तरेणोपभृतं ध्रुवां प्रतिकृष्टतरामुपरिष्टाद् विधृत्योः ध्रुवासि इति १४
असँ स्पृष्टाः सादयति १५
दक्षिणेन जुहूँ स्रुवँ सादयत्युत्तरेण वा ध्रुवाम् ऋषभोऽसि शाक्वरो घृताचीनाँ सूनुः प्रियेण नाम्ना प्रिये सदसि सीद इति १६