सह स्रुचा पुरस्तात् प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति पोषाय त्वा इति १
यत्प्रोक्षणीनामुच्छिष्येत तदन्तर्वेदि निनयति स्वधा पितृभ्यः इति २
दक्षिणायै श्रोणेरुपक्रम्योत्तरस्याः सन्ततां धाराँ स्रावयति ३
पूषा ते
ग्रन्थिं विष्यतु इति बर्हिर्विस्रँ सयति ४
ऊर्ध्वं प्राञ्चमुद्गूढं
प्रत्यञ्चमायच्छति ५
पुरस्तात् प्रस्तरं गृह्णाति । नानुमार्ष्टि न
प्रतिमार्ष्टि नावधूनोति । कर्षन्निवापादत्ते विष्णो स्तूपोऽसि
इति ६
तस्मिन् पवित्रे अपिसृजति अयं प्राणश्रापानश्च यज-मानमपिगच्छताम् ।
यज्ञे ह्यभूतां पोतारौ पवित्रे हव्यशोधने इति ७
ततः सम्प्रेष्यति
स्तृणीत बर्हिः परिधत्त वेदिं जामिं मा हि सीरमुया शयाना ।
दर्भैः स्तृणीत हरितैः सुवर्णैर्निष्का इमे यजमानस्य ब्रध्ने इति ८
ब्रह्मणे प्रस्तरं प्रयच्छति प्राणापानाभ्यां त्वा सतनुं करोमि इति
९
ब्रह्मा यजमानाय यजमाने प्राणापानौ दधामि इति १०
मयि प्राणापानौ इति
यजमानः प्रत्याह ११
शुल्बँ स्तृणाति ऊर्णाम्रदसं त्वा स्तृणामि
इत्या दक्षिणायै श्रोणेः प्रपाद्योत्तरस्मादँ सात् सन्ततम् १२
सर्वस्यां
वेद्यां बर्हिः स्तृणाति बहुलमनतिदृश्नम् ऊर्णाम्रदसं त्वा स्तृणामि इति
त्रिधातु पञ्चधातु वा प्रागपवर्गं प्रत्यगपवर्गं वा १३
अग्रैर्मूला-न्याच्छादयति १४
८