अनिष्कासिना स्रुवेणान्तर्वेद्याज्यानि गृह्णाति वेदे स्रुचोऽत्याधाय १
चतुर्गृहीतं जुह्वां शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो
यजुषेयजुषे गृह्णामि इत्येतैस्त्रिभिर्मन्त्रैः । पञ्चानां त्वा वातानाम्
इति चतुर्थम् २
एवमेवोत्तरैर्मन्त्रै-रुपभृति ध्रुवायामिति गृह्णाति ३
अष्टगृहीतमुपभृति चतुर्गृहीतं ध्रुवायाम् । पञ्चगृहीतं पशुकामस्य
४
तैरेव मन्त्रैर्यजमानोऽनुमन्त्रयते ५
अपि
वाध्व-र्यवैरेवाध्वर्युर्गृह्णीयात्
६
याजमानैर्यजमानोऽनुमन्त्रयते ७
भूयो जुह्वां गृह्णा-त्यल्पीय उपभृति
भूयिष्ठं ध्रुवायाम् ८
समम्बिलं धारयमाणो जुह्वां गृह्णाति
मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाम् ९
नान्तर्वेदि गृहीतस्य पश्चात् प्रतिहरति १०
नोत्कर
आज्यं किञ्चन सादयति ११
आपो देवीरग्रेपुवः इति प्रोक्षणीरभिमन्त्र्य
ब्रह्माणमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति १२
प्रसूतो ब्रह्मणा
विषायेध्मं प्रोक्षति कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहा इति १३
वेदिरसि इति वेदिम् । बर्हिरसि इति बर्हिः । एकैकं त्रिस्त्रिः
प्रोक्षति १४
अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य
प्रोक्षति । दिवे त्वा इत्यग्रम् । अन्तरिक्षाय त्वा इति
मध्यम् । पृथिव्यै त्वा इति मूलम् १५
स्रुच्यग्राण्युपपाय्य
मूलान्युपपाययति १६
७