०६

तस्यां पवित्रान्तर्हितायां प्रभूतमाज्यं निर्वपति महीनां पयोऽस्योषधीनाँ रसस्तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्यायै इति १ दक्षिणाग्नावधिश्रयति इदं विष्णुर्वि चक्रमे इति २
विलाप्य वा निर्वपति ३
इषे त्वा इति दक्षिणार्धे गार्हपत्यस्याधिश्रयति ४
ऊर्जे त्वा इत्यपादाय वेदेनोपयम्य पत्न्या उपयच्छति ५
तत् सा निमील्यानुच्छ्वसन्त्यवेक्षते महीनां पयोऽस्योषधीनाँ रसोऽदब्धेन त्वा चक्षुषावेक्षे सुप्रजास्त्वाय इति ६ तेजोऽसि इत्युत्तरार्धे गार्हपत्यस्या-धिश्रयति ७
तेजसे त्वा इत्यपादाय वेदेनोपयम्याहरति तेजोऽसि तेजोऽनु प्रेहि इति ८
आहवनीयेऽधिश्रयति अग्निस्ते तेजो मा विनैत् इति ९
उत्तरेण प्रोक्षणीः स्फ्यस्य वर्त्मन् सादयति अग्नेर्जिह्वासि सुभूर्देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भव इति १०
अथैनदध्वर्युश्च यजमानश्च निमील्यानुच्छ्वसन्ता-ववेक्षेते आज्यमसि इति प्रतिपद्य तस्य ते भक्षीय इत्यन्तेन ११ अथैनदुदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पुनाति शुक्रमसि ॥ ज्योतिरसि ॥ तेजोऽसि इत्येतैर्मन्त्रैः १२
आज्यवतीभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति देवो वः सवितोत्पुनातु इति पच्छो गायत्र्या १३