०५

अथैतानि सम्मार्जनान्यद्भिः सँ स्पृश्याग्नौ प्रहरति यतरस्मिन् निष्टपति दिवः शिल्पमवततं पृथिव्याः ककुभि श्रितम् । तेन वयँ सहस्रवल्शेन सपत्नं नाशयामसि स्वाहा इति १
उत्करे वोदस्यति २ पत्नीमूर्ध्वज्ञुमासीनाँ सन्नह्यति तिष्ठन्तीं वा स्वयं वा पत्न्यात्मानं मौञ्जेन योक्त्रेणान्यतरतःपाशेनाभ्यन्तरं वाससो बाह्यतो वा आशासाना सौमनसम् इति ३
उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा दक्षिणतो नाभेः पर्यूहते ४
अग्ने गृहपत उप मा ह्वयस्व इति गार्हपत्यमभिमन्त्रयते ५
देवानां पत्नीरुप मा ह्वयध्वम् इति देवपत्नीरपरेण गार्हपत्यम् ६
देवपत्न्या लोकमुपतिष्ठते पत्नि पल्येष ते लोको नमस्ते अस्तु मा मा हिँ सीः इति ७
देशाद् दक्षिणत उदीच्युपविशति इन्द्रा णीवाविधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वाय इति ८ गार्हपत्यमभिमन्त्रयते सुप्रजसस्त्वा वयम् इत्येतया ९
मम पुत्राः शत्रुहणो अथो मे दुहिता विराट् । उताहमस्मि सञ्जया पत्युर्मे श्लोक उत्तमः इति च १०
पूषा ते बिलं विष्यतु इति सर्पिर्धानस्य बिलं विष्यति ११ अदितिरस्यच्छिद्र पत्रा इत्याज्यस्थालीमादाय १२