दक्षिणमिध्ममुत्तरं बर्हिः १
स्रुवं च स्रुचश्च प्राशित्रहरणं चादाय
गार्हपत्ये वाहवनीये वा निष्टपति प्रत्युष्टँ रक्षः
प्रत्युष्टा अरातयः इति २
वेदाग्रैः प्रति-विभज्य
सम्मार्ष्टि । अप्रतिविभज्य वा ३
स्रुवमग्र उत्तानं
धारयमाणोऽग्रैरन्त-रतोऽभ्याकारँ सर्वतो बिलमभिसमाहारं
तन्मूलैर्दण्डं गोष्ठं मा निर्मृक्षम् इति ४
जुहूँ सम्मार्ष्ट्युत्तानां
धारयमाणोऽग्रैरन्तरतोऽभ्याकारं प्राचीं मध्यैर्बाह्यतः प्रतीचीं
मूलैर्दण्डं वाचं प्राणं मा निर्मृक्षम् इति ५
उपभृतँ
सम्मार्ष्टि तिरश्चीं धारयमाणो-ऽग्रैरन्तरतोऽभ्याकारं
प्रतीचीं मध्यैर्बाह्यतः प्राचीं मूलैर्दण्डं चक्षुः
श्रोत्रं मा निर्मृ-क्षमिति ६
यथा स्रुवं तथा ध्रुवां प्रजां
योनिं मा निर्मृक्षम् इति ७
रूपं वर्णं मा निर्मृक्षं वाजि त्वा
सपत्नसाहँ सम्मार्ज्मि इति प्राशित्रहरणम् ८
न सम्मृष्टानि
चासम्मृष्टानि च सँ स्पर्शयेत् ९
यदि सँ स्पर्शयेत् पुनरेव निष्टप्य
सम्मृज्यात् १०
सम्मृष्टानि निष्टपति अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामि
इति ११
४