०३

आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात् खननपुरीषां प्रजाकामस्येति विज्ञायते १
उदुप्य नित्यमन्यदावपेदित्येकम् । अखातायामेवान्यदावपेदित्यपरम् २
यत्र खनेत् तत्र खननमन्त्रं जपेत् ३
अधिश्रितेषु हविःषु पौर्णमास्यां वेदिं कुर्यात् ४ पूर्वेद्युः प्राग् बर्हिष आहरणादमावास्यायाम् ५
यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वोपवसति ६
समानमितरत् ७
ब्रह्माणमामन्त्रयते ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामि इति ८
प्रसूतो ब्रह्मणा स्फ्येन वेदिं परिगृह्णाति । ऋतमसि इति दक्षिणतः ऋतसदनमसि इति पश्चात् ऋतश्रीरसि इत्युत्तरतः ९
अथैनाँ स्फ्येन प्रतीचीं योयुप्यते धा असि स्वधा असि का!शेषेण १०
पश्चार्धे वितृतीयदेशे वेदेः स्फ्यं तिर्यञ्चँ स्तब्ध्वा सम्प्रेष्यति प्रोक्षणीरासादयेध्मा-बर्हिरुपसादय स्रुवं च स्रुचश्च सम्मृड्ढि पत्नीँ सन्नह्याज्येनोदेहि इति ११
आग्नीध्र एतानि कर्माणि कुर्यादित्येकम् । अध्वर्युरित्यपरम् १२
उपनिनीय प्रोक्षणीः स्फ्यस्य वर्त्मन् दक्षिणेन स्फ्यमसँ स्पृष्टा बर्हिरासादयति १३
यं द्विष्यात् तं ध्यायेत् १४
उत्करे पुरस्तात् प्रत्यञ्चँ स्फ्यमुदस्यति शतभृष्टिरसि वानस्पत्यो द्विषतो वधः इति १५
यं द्वेष्टि तस्य नाम गृह्णाति १६
हस्ताववनिज्य स्फ्यं प्रक्षालयति । नाग्रं प्रतिमुञ्चति १७
वेदिं कृत्या नानवनिज्य हस्तौ पात्राणि पराहण्यात् १८
उत्तरेण प्रणीताः पश्चात् प्रागग्रमिध्माबर्हिषी उपसादयति १९