देवस्य त्वा सवितुः प्रसवे इति स्फ्यमादाय तृणेन सँ श्यति शतभृष्टिरसि
वानस्पत्यो द्विषतो वधः सहस्रभृष्टिः शततेजा वायुरसि तिग्मतेजाः
इति १
अपरेणाहवनीयं वेदिर्भवति यजमानमात्र्यपरिमिता वा प्राची २
यथा
हवीँ ष्यासन्नानि सम्भवेदेवं तिरश्ची ३
वेदेन वेदिं विविदुः पृथिवीँ सा
पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते
विश्वदानिः इति पुरस्तात् स्तम्बयजुषो वेदेन वेदिं त्रिः
सम्मार्ष्ट्युपरिष्टाद् वा ४
पूर्वार्धाद्
वितृतीयदेशाद् वेदेः स्तम्बयजुर्हरति ५
पृथिव्यै वर्प्रासि इत्यन्तर्वेदि
प्रागग्रमुदगग्रं वा दर्भं निधाय तस्मिन् स्फ्येन प्रहरति पृथिवि
देवयजन्योपध्यास्ते मूलं मा हिँ सिषम् इति ६
अपहतोऽररुः पृथिव्यै इति स्फ्येन सतृणान् पाँ सूनपादाय
हरति व्रजं गच्छ गोस्थानम् इति ७
वर्षतु ते द्यौः इति वेदिं प्रत्यवेक्षते
८
उत्तरतो निवपति बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान्
द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौक् ॥ अररुस्ते दिवं मा स्कान्
इति ९
स उत्करो भवति १०
तमाग्रीध्रो गृह्णाति अररो दिवं मा पप्तः इति
११
एवमेव द्वितीयँ हरत्येवं तृतीयम् १२
अपहतोऽररुः पृथिव्यै देवयजन्यै इति
द्वितीयमपादत्ते १३
अपहतोऽररुः पृथिव्या अदेवयजनः इति तृतीयम् १४
१