२६

सर्वाणि कपालान्यभिप्रथयति उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इति १ अतुङ्गमनपूपाकृतिं कूर्मस्येव प्रतिकृतिमश्वशफमात्रं करोति २ पात्र्यामप आनीय प्रदक्षिणं लेपेनानुपरिमार्ष्टि त्वचं गृह्णीष्व इत्येकैकम् । नातिक्षारयति ३
त्रिः पर्यग्नि करोति अन्तरितँ रक्षोऽन्तरिता अरातयः इति ४
परि वाजपतिः कविः इति वा ५ देवस्त्वा सविता श्रपयतु इत्युल्मुकैः प्रतितपति ६
अग्निस्ते तनुवं माति धाक् इति दर्भैरभिज्वलयति ७
अविदहन्तः श्रपयत इति वाचं विसृजते ८
सं ब्रह्मणा पृच्यस्व इति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति ९ अथाङ्गुलिप्रक्षालनं पात्रीनिर्णेजनमित्युल्मुकेनाभितप्य स्फ्येनान्तर्वेदि तिस्रः प्राचीरुदीचीर्वा लेखा लिखित्वासँ स्यन्दयन् प्रत्यगपवर्गं त्रिर्निनयति एकताय स्वाहा इत्येतैः प्रतिमन्त्रम् १०
२६

इति प्रथमः प्रश्नः