अथैनानि पवित्राभ्यामुत्पुनाति देवो वः सवितोत्पुनातु इति पच्छो गायत्र्!
या १
प्रणीताभिर्हवीँ षि संयौति २
अन्या वा यजुषोत्पूय ३
स्रुवेण
प्रणीताभ्य आदाय वेदेनोपयम्याहरति ४
समापो अद्भिरग्मत इति
पिष्टेष्वानयति ५
अद्भ्यः परि प्रजाता स्थ समद्भिः पृच्यध्वम् इति
तप्ताभिः प्रदक्षिणं पर्याप्लावयति ६
जनयत्यै त्वा सं यौमि
इति संयुत्य विभजते यथाभागं व्यावर्तेथाम् इति यतः पुनर्न सँ हरिष्यन्
भवति ७
अथाभिमृशति अग्नये त्वा इति दक्षिणं पिण्डम् अग्नीषोमाभ्यां त्वा
इत्युत्तरं पौर्णमास्याम् इन्द्रा ग्निभ्याम् इत्यमावास्यायाम-सन्नयतः ८
इदमहँ सेनाया अभीत्वर्यै मुखमपोहामि इति वेदेन कपालेभ्यो-ऽङ्गारानपोह्य
मखस्य शिरोऽसि इति दक्षिणं पिण्डमादाय दक्षिणे कपाल-योगेऽधिश्रयति घर्मोऽसि
विश्वायुः इति ९
एवमेवोत्तरं पिण्डमादायोत्तरे कपालयोगेऽधिश्रयति १०
एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ११
अत्राज्यं निर्वपति उपरितरां वा १२
२५