पत्नी पिनष्टि दासी वा १
धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादाय
गार्हपत्यात् प्रत्यञ्चावङ्गारौ
निरूह्यान्यतरमुत्तरापरमवान्तरदेशं
प्रतिनिरस्यति अपाग्नेऽग्नि-मामादं जहि निष्क्रव्यादँ सेध इति २
आ
देवयजं वह इत्यन्यतरमवस्थाप्य तस्मिन् कपालमुपदधाति ध्रुवमसि पृथिवीं
दृँ ह इति ३
तत् सव्यस्या-ङ्गुल्याधिनिधाय कपालेऽङ्गारमधिवर्तयति निर्दग्धँ
रक्षो निर्दग्धा अरातयः इति ४
धर्त्रमसि ॥ धरुणमसि इति पूर्वम्पूर्वं
कपालमुपदधाति । धर्मासि इति दक्षिणम् । चित स्थ इत्युत्तरम्
। मरुताँ शर्धोऽसि इति षष्ठम् । चिदसि ॥ परिचिदसि इत्यवशिष्टे उपदधाति ।
तूष्णीं वाष्टौ सम्पादयति ५
एवमेवोत्तरं कपालयोगमुपदधाति ६
एकादश सम्पादयति
द्वाडश वैन्द्रा ग्नस्य ७
एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ८
अथैनान्यङ्गारैरध्यूहति भृगूणामङ्गिरसां तपसा तप्यध्वम् इति ९
अत्र
मदन्तीरधिश्रयति १०
निष्टप्तोपवातायां पात्र्यां
वाचंयमस्तिरः पवित्रं पिष्टानि संवपति देवस्य त्वा
सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टँ सं
वपामि । अग्नीषोमाभ्याम् इति यथादेवतम् । त्रिर्यजुषा तूष्णीं
चतुर्थम् ११
२४