२३

व्याख्यातमास्तरणम् १
कृष्णाजिनेऽभीव ग्रीवाः पश्चादुदीचीनकुम्बाँ शम्यां निदधाति दिव स्कम्भनिरसि इति २
शम्यायां दृषदं धिषणासि पर्वत्या इति । दृषद्युपलां धिषणासि पार्वतेयी इति ३
दृषदि तण्डुलानधिवपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टमधि वपामि ॥ अग्नीषोमाभ्याम् इति यथादेवतम् । त्रिर्यजुषा तूष्णीं चतुर्थम् ४
सन्ततं पिनष्टि ५
प्राणाय त्वा इति प्राचीमुपलां प्रोहति । अपानाय त्वा इति प्रतीचीम् । व्यानाय त्वा इति मध्यदेशे व्यवधारयति ६ दीर्घामनु प्रसितिमायुषे धाम् इति प्राचीमन्ततोऽनुप्रोहति ७ कृष्णाजिने पिष्टानि प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु इति ८
प्रस्कन्नान्यवेक्षते अदब्धेन वश्चक्षुषावपश्यामि इति ९ हविष्कृतं प्रेष्यति असंवपन्ती पिँ षाणूनि कुरुतात् इति १०
२३