२२

उत्तरतः शूर्पमुपोहति वैणवमैषीकं नलमयं वा वर्षवृद्धमसि इति १
हविरुद्वपति प्रति त्वा वर्षवृद्धं वेत्तु इति २
उत्करे परापुनाति परापूतँ रक्षः परापूता अरातयः इति ३
अपहतँ रक्षः इति तुषान् प्रतिहन्ति ४ मध्यमे पुरोडाशकपाले तुषानोप्याधस्तात् कृष्णाजिनस्योपवपति रक्षसां भागोऽसि इति ५
अप उपस्पृश्य विविनक्ति वायुर्वो वि विनक्तु इति ६
पात्र्यां तण्डुलान् प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु इति ७
प्रस्कन्नानभिमृशति देवेभ्यः शुन्धध्वम् इति ८
हविष्कृतं प्रेष्यति त्रिष्फली-कर्तवै इति ९
या यजमानस्य पत्नी साभ्युदेत्यावहन्त्यन्यो वा १०
त्रिः सुफलीकृतान् करोति ११
प्रज्ञातान् फलीकरणान् निधायोत्करे तण्डुल-प्रक्षालनं निनयति त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत् प्रवहतादितः इति १२
तथैव कृष्णाजिनमादायावधूनोति १३
२२