सावित्रेण कृष्णाजिनमादायोत्करे त्रिरवधूनोत्यूर्ध्वग्रीवं बहिर्विशसनम्
अव-धूतँ रक्षोऽवधूता अरातयः इति १
उत्तरेण विहारं
प्रतीचीनग्रीवमु-त्तरलोमास्तृणाति
अदित्यास्त्वगसि इति २
प्रति त्वा पृथिवी वेत्तु इति प्रतीचीं भसदं
प्रतिसमस्यति ३
अनुत्सृजन् कृष्णाजिनमुलूखलमधिवर्तयति
अधि-षवणमसि वानस्पत्यम् इति ४
अनुत्सृजन्नुलूखलँ हविरावपति
अग्नेस्तनूरसि वाचो विसर्जनं देववीतये त्वा गृह्णामि इति
त्रिर्यजुषा तूष्णीं चतुर्थम् ५
अद्रि रसि वानस्पत्यः इति मुसलमादाय
हविष्कृतं त्रिराह्वयति । हविष्कृदेहि इति ब्राह्मणस्य आद्र व इति
राजन्यस्य आगहि इति वैश्यस्य ६
अवहन्ति अव रक्षो दिवः सपत्नं
वध्यासम् इति ७
प्रादुर्भूतेषु तण्डुलेषु उच्चैः समाहन्तवै
इत्याग्नीध्रं प्रेष्यति ८
कुटरुरसि मधुजिह्वः इत्याग्नीध्रोऽश्मानमादाय
शम्यां वा सावित्रेणोच्चैर्दृषदुपले समाहन्ति इषमा वदोर्जमा वद इति ९
द्विर्दृषदि सकृदुपलायाम् । त्रिः सञ्चारयन् नवकृत्वः सम्पादयति १०
२१