२०

इदं देवानाम् इति निरुप्तानभिमृशति । इदमु नः सह इति यतोऽधि निर्वपति १ स्फात्यै त्वा नारात्यै इति हविरादायोपनिष्क्रामति इदमहं निर्वरुणस्य पाशात् इति २
विहारमभिवीक्षते सुवरभि वि ख्येषं वैश्वानरं ज्योतिः इति ३
दृँ हन्तां दुर्या द्यावापृथिव्योः इति प्रत्यवरोहति ४
आहरति उर्वन्तरिक्षम-न्विहि इति ५
अपरेणाहवनीयमुपसादयति अदित्यास्त्वोपस्थे सादयामि इति ६
परिददाति अग्ने हव्यँ रक्षस्व ॥ अग्नीषोमौ हव्यँ रक्षेथाम् ॥ इन्द्रा ग्नी हव्यँ रक्षेथाम् इति यथादेवतम् ७
अग्ने हव्यँ रक्षस्व इति वा ८
सशूकाया-मग्निहोत्रहवण्यां तिरः पवित्रमप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूया-भिमन्त्रयते यथा पुरस्तात् ९
ब्रह्माणमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति १०
प्रसूतो ब्रह्मणा हविः प्रोक्षति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं प्रोक्षामि ॥ अग्नीषोमाभ्याम् इति यथादेवतम् । एकैकं त्रिस्त्रिः प्रोक्षति ११
हविः प्रोक्षन्नाग्निमभिप्रोक्षति १२ हविः प्रोक्ष्य पात्राणि प्रोक्षति १३
उत्तानानि पर्यावृत्य शुन्धध्वं दैव्याय कर्मणे देवयज्यायै इति त्रिः कुर्यात् १४
प्रोक्षणीनाँ शेषमित्याश्मरथ्यः । सर्वाभिः प्रोक्षेदित्यालेखनः १५
२०