१९

यजमानमामन्त्रयते यजमान हविर्निर्वप्स्यामि इति १
ॐ निर्वप इति यजमानः प्रत्याह २
यदि यजमानः प्रवसेत् अग्ने हविर्निर्वप्स्यामि इति ब्रूयात् ३
अपरेण गार्हपत्यं प्रागीषँ शकटमवस्थाप्य तस्मिन् पुरोडाशीयानाधाय दक्षिणां युगधुरमभिमृशति धूरसि धूर्व धूर्वन्तम् इति ४
एवमुत्तराम् ५
त्वं देवानामसि सस्नितमम् इत्युत्तरामीषामालभ्य जपति ६
विष्णुस्त्वाक्रँ स्त इत्युत्तरे चक्रे दक्षिणं पादमत्यादधाति ७
अह्रुतमसि हविर्धानम् इत्यारोहति ८
मित्रस्य त्वा चक्षुषा प्रेक्षे इति परिणाहं प्रेक्षते ९
उरु वाताय इत्यपच्छाद्यान्तः शकट उपविश्य दशहोतारं व्याख्याय यच्छन्तु त्वा पञ्च इति व्रीहीन् यवान् वाग्निहोत्रहवण्यां मुष्टीनोप्य तिरः पवित्रँ शूर्पे निर्वपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि इति १०
त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् ११
निरुप्तेष्वन्वावपति भक्षाणां प्ररेकाय १२
एवमेवोत्तरं पुरोडाशं निर्वपति अग्नीषोमाभ्याम् इति पौर्णमास्याम् इन्द्रा ग्निभ्याम् इत्यमावास्यायामसन्नयतः १३
अथ यदि पात्र्! यां निर्वपेद् दक्षिणतः स्फ्यमव-धाय तस्याँ सर्वान् शकटमन्त्रान् जपेत् १४
१९